(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

Mahabharat Part 4 | Virat Parva | महाभारत | विराट पर्व


॥ श्रीः ॥
4.4. अध्यायः 004
Mahabharata - Virata Parva - Chapter Topics
युधिष्ठिरंप्रति नकुलेन विराटनगरे अश्वपालकतया स्वस्य निवासकथनम् ॥1 ॥
सहदेवेन गोपालकतया स्वस्य निवासकथनम् ॥ 2 ॥
द्रौपद्या सैरन्ध्रीभावेन स्वस्य निवासकथनम् ॥ 3 ॥
Mahabharata - Virata Parva - Chapter Text

वैशम्पायन उवाच । 4-4-0x(2982)(28251)
इत्येवमुक्त्वा पुरुषप्रवीरस्तथार्जुनो धर्मामृतां वरिष्ठः।
वाक्यं तथासौ .... भूयो नृपोऽपरं भ्रातर...बभाषे 4-4-1(28252)
किंकर्मा किंसमाचारो नकुलोयं भविष्यति।
सुकुमारश्च शूरश्च दर्शनीयः सुखोचितः ॥ 4-4-2(28253)
अदुःखार्हश्च बालश्च लालितश्चापि नित्यशः ।
सोयमार्तश्च शान्तश्च किं नु रोचयतात्त्विह ॥ 4-4-3(28254)
किं त्वं नकुल कुर्वाणस्तस्य तात चरिष्यसि।
कर्म तत्त्वं समाचक्ष्व राज्ये तस्य महीपतेः ॥ 4-4-4(28255)
नकुल उवाच। 4-4-5x(2983)
अश्वाध्यक्षो भविष्यामि विराटस्येति मे मतिः।
दामग्रन्थीति नाम्नाऽहं कर्मैतत्सुप्रियं मम ॥ 4-4-5(28256)
दामग्नन्थी परिज्ञातः कुशलो दामकर्मणि ।
न मां परिभविष्यन्ति जना जात्विह कर्हिचित् ॥ 4-4-6(28257)
कुशलोत्स्म्यश्वशिक्षायां तथैवाश्वचिकित्सने।
प्रियाश्च सततं मेऽश्वाः कुरुराजा यथा तव॥ 4-4-7(28258)
न मां परिभविष्यन्ति किशोरा वडवास्तथा ।
न दुष्टाश्च भविष्यन्ति पृष्ठे धुरि च मद्गताः ॥ 4-4-8(28259)
द्रक्ष्यन्ति ये च मां केचिद्विराटनगरे जनाः ।
तेभ्य एवं प्रवक्ष्यामि विहरिष्याम्यहं यथा ॥ 4-4-9(28260)
पाण्डवेन ह्यहं तात अश्वेष्वधिकृतः पुरा।
इति तस्य पुरे छन्नश्चरिष्यामि महीपते ।
इत्येतद्वः प्रतिज्ञातं विहरिष्याम्यहं यथा ॥ 4-4-10(28261)
वैशम्पायन उवाच। 4-4-11x(2984)
नकुलेनैवमुक्तस्तु धर्मराजोऽब्रवीद्वचः।
बृहस्पतिसमो बुद्ध्या नयेनोशनसा समः ॥ 4-4-11(28262)
मन्त्रैर्नानाविधैर्नीतः पथ्येषु परिनिष्ठितः ।
सुप्रणीतः सुमार्गस्थो राजतन्त्रमवाप यः ॥ 4-4-12(28263)
न चास्य स्खलितं किंचिद्ददृशुस्तद्विदो जनाः।
सुनीतिज्ञश्च शूरश्च सर्वमन्त्रविशारदः ॥ 4-4-13(28264)
अधिको मातुरस्माकं कुन्त्याः प्रियतमः सदा।
सहदेव कथं कर्म तस्य राज्ञः करिष्यसि।
किं वा त्वं तात कुर्वाणः प्रच्छन्नो विचरिष्यसि ॥ 4-4-14(28265)
सहदेव उवाच। 4-4-15x(2985)
गोसङ्ख्याता भविष्यामि विराटस्येति रोचये।
प्रतिभोक्ता च दोग्धा च सङ्ख्यानकुशलो गवाम्।
तन्त्रीपालेति मे नाम स्वयं प्रोक्तं भविष्यति॥ 4-4-15(28266)
अयोगा बहुलाः पुष्टाः क्षीरवत्यो बहुप्रजाः ।
निष्पन्नसत्त्वाः सुभृता ह्यपेतज्वरकिल्विषाः ॥ 4-4-16(28267)
दृष्टचोरभया नित्यं व्याधिव्याघ्रविवर्जिताः ।
गावः सुसहिता राजन्निरुद्विग्ना निरामयः ॥ 4-4-17(28268)
भविष्यन्ति मया गुप्ता विराटनगरे तदा।
निपुणत्वं चरिष्यामि प्रीतिरत्र परा हि मे ॥ 4-4-18(28269)
अहं हि भवता गोषु प्रहितः सतत पुरा।
तत्र मे कौशलं सर्वमनुबद्धं विशांपते ॥ 4-4-19(28270)
लक्षणं चरितं चैव गवां यच्चापि मङ्गलम् ।
सत्सर्वं मे सुविदितमन्यच्चापि विशांपते ॥ 4-4-20(28271)
वृषभानपि जानामि राजन्पूजितलक्षणान्।
येषां मूत्रमुपाघ्राय अपि वन्ध्या प्रसूयते ॥ 4-4-21(28272)
सोऽहमेवं चरिष्यामि प्रीतिरत्र परा हि मे।
विराटनगरे गूढो रंस्येऽहं तेन कर्मणा ॥ 4-4-22(28273)
तोषयिष्ये च राजानां मा भूच्चिन्ता तवानघ ।
न च मां वेत्स्यति परस्तत्ते रोचतु पार्थिव।
इत्येतद्वः प्रतिज्ञातं विचरिष्याम्यहं यथा ॥ 4-4-23(28274)
युधिष्ठिर उवाच। 4-4-24x(2986)
केनात्र कर्मणा कृष्णा द्रौपदी विचरिष्यति।
न हि किंचिद्विजानाति कर्म कर्तुं यथा स्त्रियः ॥ 4-4-24(28275)
माल्यागन्धानलङ्कारान्वस्त्राणि विविधानि च।
एतान्येवाभिजानाति यथाजाता च भामिनी ॥ 4-4-25(28276)
पतिव्रता महाभागा कथं नु विचरिष्यति।
इयं तु नः प्रिया भार्या प्राणेभ्योपि गरीयसी ॥ 4-4-26(28277)
मातेव परिपाल्या च पूज्या ज्येष्ठा स्वसेव च ।
सुकुमारी सुशीला च राजपुत्री यशस्विनी ।
कथं वत्स्यति कल्याणी विराटनगरे सती ॥ 4-4-27(28278)
द्रौपद्युवाच। 4-4-28x(2987)
अहं वत्स्यामि राजेन्द्र निर्वृतो भव पार्थिव।
यथा ते मत्कृते शोको न भवेन्नृपते शृणु।
यथा तु मां न जानन्ति यत्करिष्याम्यहं प्रभो ॥ 4-4-28(28279)
छन्ना वत्स्याम्यहं यन्मां न विजानन्ति केचन।
वृत्तं तच्च समाख्यास्ये शर्म तेस्तु विशांपते ॥ 4-4-29(28280)
सैरन्ध्रीजातिसंपन्ना नाम्नाऽहं व्रतचारिणी ।
भविष्यामि महाराज विराटस्येति मे मतिः ॥ 4-4-30(28281)
सैरन्ध्र्यो रक्षिताः स्त्रीणां भुजिष्याः सन्ति भारत ।
एकपत्न्यः स्त्रियश्चैता इति लोकस्य निश्चयः ॥ 4-4-31(28282)
साऽहं ब्रुवाणा सैरन्ध्री कुशला केशकर्मणि।
प्रमदाहरिका लोके पुरुषाणां प्रवासिनाम् ॥ 4-4-32(28283)
युधिष्ठिरस्य वै गेहे द्रौपद्याः परिचारिका।
उषिताऽस्मीति वक्ष्यामि पृष्टा राज्ञा च भारत।
आत्मगुप्ता चरिष्यामि यन्मां त्वं परिपृच्छसि ॥ 4-4-33(28284)
नाहं तत्र भविष्यामि दुर्भरा राजवेश्मनि।
कृत्वा चैव सदा रक्षां व्रतेनैव नराधिप ॥ 4-4-34(28285)
सुदेष्णां प्रत्युपस्थास्ये राजभार्यां यशस्विनीम् ।
सा रक्षिष्यति मां प्राप्तां मा ते भूद्दुःखमीदृशम् ॥ 4-4-35(28286)
अथ गुप्ता चरिष्यामि युष्माभिस्तत्र तस्थुषी।
इत्येवं वः प्रतिज्ञातं विहरिष्याम्यहं यथा ॥ 4-4-36(28287)
युधिष्ठिर उवाच। 4-4-37x(2988)
यथा नो दुर्हृदः पापा भवन्ति सुखिनः पुनः।
कुर्यास्तथा त्वं कल्याणि लक्षयेयुर्न ते जनाः ॥ 4-4-37(28288)
4-4-38(28289)
कल्याणं भाषसे कृष्णे यथा कौलेयकी तथा।
न पापमभिजानासि साध्वी साधुव्रते स्थिता ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.